BSEB Class 10 Sanskrit Chapter 11 Summary in Hindi
एकादशः पाठः — पर्यटनम् (Chapter 11 — Tourism) 📜 Page 1 🕉️ Original Sanskrit Text एकादशः पाठः पर्यटनम् (क) नासिकक्षेत्रम् महाराष्ट्रदेशे पवित्रायाः गोदावरीनद्याः तीरे विलसति नासिकक्षेत्रम्। शूर्पणखायाः नासिका अत्रैव छिन्ना लक्ष्मणेन इत्यतः स्थानस्यास्य तत् नाम इति वदन्ति अत्रत्याः। नासिक इत्यपि कथ्यमानम् एतत् अनेकैः कारणैः प्रसिद्धम् अस्ति। गोदावर्याः एकस्मिन् पार्श्वे नासिकनगरं चेत् अपरस्मिन् पार्श्वे अस्ति पञ्चवटीक्षेत्रम् । कुम्भमेलः प्रचलति इति कारणतः नासिकक्षेत्रं प्रयागमिव हरिद्वारमिव पवित्रं मन्यन्ते श्रद्धालवः। द्वादशसु वर्षेषु एकदा प्रचलति अयं कुम्भमेलः। तदा तु क्षेत्रेऽस्मिन् भक्तानां तादृशः महापूरः भवति यत् कुत्रापि पदं निक्षेप्तुमपि स्थलं न लभ्यते। अग्रिमस्य कुम्भमेलस्य निमित्तं गतवर्षादेव सज्जातकार्याणि प्रचलन्ति सन्ति। गोदावरीं द्रष्टुं नदीतीरं गतवता मया विस्मयः प्रापः यतः तत्र जलमेव नासीत्। ततः कारणं ज्ञातं यत् कुम्भमेलस्य निमित्रं नद्याः तटयोः व्यवस्थाः कर्तुम् इदानीं तस्याः प्रवाहः अन्यत्र एव नीतः अस्ति इति। अतः श्रीरामकुण्डनामकात् स्थानात् अनन्तरं नद्याः पात्रं...
By
Guddu Kumar