Skip to content

Search This Blog

Search across AvN Learn India | CBSE, Bihar Board & ICSE Study Notes articles and categories

Master CBSE & Bihar Board exams with AvN Learn India. Get expert notes for Physics, Math, Coding & Grammar. Best solutions for I.Sc, I.A & I.Com!

BSEB Class 10 Sanskrit Chapter 14 Summary in Hindi

📜 Page 1 ​ 🕉️ Original Sanskrit Text ​ चतुर्दशः पाठः वणिजः कृपणता कस्मिंश्चित् ग्रामे कश्चन् वणिक आसीत्। सः अतीव कृपणः। कदाचित् सः वाणिज्यनिमित्तं पार्श्वस्थं नगरं गतवान् आसीत्। तत्र वाणिज्यं समाप्य गृहं प्रत्यागतः सः यदा स्वस्य कोष्ठं पश्यति तदा तेन ज्ञातं यत् तत्र स्थापितः धनस्यूतः एव न आसीत्। तस्मिन् दिने वाणिज्यतः प्राप्तानि चतुस्सहस्ररूप्यकाणि तत्र आसन्। सः सम्यक् स्मृतवान् यत् ग्रामप्राप्तिपर्यन्तमपि कोषे स धनस्यूतः आसीदेव इति । अतः ग्रामे एव सः पतितः केनापि प्राप्तः स्यात् इति। सः ग्रामप्रमुखस्य समीपं गत्वा तं निवेदितवान् यत् एतद्विषये ग्रामे घोषणा करणीया इति। तदनुसारं ग्रामे सडिण्डिमं घोषणा कारिता यत् 'यः तं धनस्यूतम् अन्विष्य आनीय ददाति तस्मै चतुश्शतं रूप्यकाणि पारितोषिकरूपेण दीयन्ते' इति। संयोगेन काचित् वृद्धा तं धनस्यूतं प्राप्तवती आसीत्। किन्तु भीता सा चिन्तितवती यत् यदि एतं विचारम् अन्यान् वदामि तर्हि जनाः मया एव चौर्यं कृतम् इति चिन्तयन्ति इति। तदा एव सा घोषणां श्रुतवती। निश्चिन्तभावेन ग्रामप्रमुखस्य समीपं गत्वा तस्मै धनस्यूतं समर्पितवती। उक्तवती च यत् “देवालयतः...
By Guddu Kumar

Share