BSEB Class 10 Sanskrit Chapter 23 Summary in Hindi
📜 Page 1 🕉️ Original Sanskrit Text 23 क्रियताम् एतत्…….. यदि किमपि करणीयम् इति इच्छा तर्हि परोपकारः क्रियताम्। यदि किमपि पालनीयम् इति इच्छा तर्हि धर्मः पाल्यताम्। यदि किमपि वक्तव्यम् इति इच्छा तर्हि सत्यम् उच्यताम्। यदि सङ्गः करणीयः इति इच्छा तर्हि सज्जनानां सङ्गः क्रियताम्। यदि व्यसने इच्छा अस्ति तर्हि दानव्यसनं पाल्यताम्। यदि किमपि ग्रहीतव्यम् इति इच्छा सज्जनानां गुणाः गृह्यन्ताम्। यदि लोभः कोऽपि आस्थेयः तर्हि सद्गुणेषु लोभः स्थाप्यताम्। यदि निन्दां विना स्थातुं न शक्यते तर्हि स्वदोषाः निन्द्यन्ताम्। यदि कोपे तीव्रेच्छा तर्हि कोपविषये एव कुप्यताम्। यदि कस्माच्चित् दूरं गन्तव्यम् तर्हि परिग्रहात् दूरे स्थीयताम्। यदि किमपि द्रष्टव्यम् इति इच्छा तर्हि आत्मा एव दृश्यताम्। यदि कोऽपि शत्रुभावेन द्रष्टव्यः तर्हि रागद्वेषौ शत्रुभावेन दृश्येताम्। यदि भेतव्यं तर्हि स्वस्य कुकृत्येभ्यः भीयताम्। 🌼 Simple Hindi Translation पाठ-23: यह कीजिए (क्रियताम् एतत्)…….. यदि कुछ करने की इच्छा हो, तो परोपकार (दूसरों की भलाई) कीजिए । यदि किसी चीज़ का पालन करने की इच्छा हो, तो धर्म (कर्तव...
By
Guddu Kumar