BSEB Class 10 Sanskrit Chapter 25 Summary in Hindi
📜 Page 1 🕉️ Original Sanskrit Text पाठ-25 ध्रुवोपाख्यानम् पुरा उत्तानपादो नाम राजा आसीत्। तस्य द्वे पत्न्यौ आस्ताम्- सुनीतिः सुरुचिश्च। सुनीतिः ज्येष्ठा पत्नी आसीत्, सुरुचिः तु कनिष्ठा आसीत्। सुरुचिः पत्युः अतीव प्रियासीत्। सुनीतेः पुत्रस्य नाम ध्रुवः सुरुचेः पुत्रस्य च नाम उत्तमः आसीत्। तयोः सुरुचेः पुत्रः उत्तमः नृपस्य प्रियतरः आसीत्। एकदा राज्ञः उत्तानपादस्य क्रोडे उत्तमः आसीनः आसीत्। उत्तमं दृष्ट्वा ध्रुवस्यापि इच्छा पितुः अङ्कम् आरोढुं सञ्जाता। किन्तु तत्र स्थिता विमाता सुरुचिः तं न्यवारयत् अवदत् च- कुमार! त्वं पितुः अङ्कमारोढुं योग्यः नासि यतो हि त्वं मम पुत्रः नासि। मम पुत्र एव अस्य योग्यः। विमात्रा अनादृतः ध्रुवः दुःखितः अभवत्। असौ स्वमातुः सुनीतेः समीपम् अगच्छत्। तं दुःखितं दृष्ट्वा सुनीतिः दुःखस्य कारणम् अपृच्छत्। ध्रुवः सर्वं वृत्तान्तम् अकथयत्। पुत्रस्य वचनं श्रुत्वा सुनीतिः अवदत्- पुत्र! तव विमाता सत्यं वदति। तथापि दुःखितः मा भव। तपसा पितुरङ्क लभस्व। वनं गच्छ, भक्तवत्सलं भगवन्तं सेवस्य इति। अम्ब, भक्तवत्सलं भगवन्तं सेविष्ये अभीष्टं च प्राप्स्यामि इत्युक्त्वा मातरं प...
By
Guddu Kumar